Thursday, November 25, 2021
भारते कोविडस्य तृतीयतरङ्गः कठिनतरं न भविष्यतीति स्वास्थ्यविचक्षणाः।
नवदिल्ली> वाक्सिनीकरणेन विषाणुबाधया च भूरिशः जनाः प्रतिरोधशेषिं प्राप्तवन्तः इत्यतः कोविड्रोगस्य तृतीयतरङ्गः भारते द्वितीयमपेक्ष्य न कठिनतरं भविष्यतीति स्वास्थ्यविचक्षणैरुक्तम्। राष्ट्रे मुख्योत्सवेषु अन्यतमस्य दीपावलेः परं सप्ताहत्रये रोगिणां संख्या नावर्धत इति एतस्य सूचनेति व्याख्यायते।
गतदिने आराष्ट्रं कोविड्बाधिनानां संख्या ७,५७९ आसीत्। ५४३ दिनेषु न्यानतमा संख्या एषा। प्रतिशतं ८२ जनाः वाक्सिनस्य प्रथममात्रां स्वीकृतवन्तः। ४३ % द्वियीयमपि स्वीकृतवन्तः।
२०२४ तमे संवत्सरे भारतेन निर्मितायाः ६ जि पारिभाषिकविद्यायाः प्रकाशनं भविष्यति।
नवदिल्ली> विश्वे विविधानि राष्ट्राणि अद्यावधि ५ जि पारिभाषिकविद्यासु प्रविष्टाः तथापि भारतम् इदानीमपि ५ जि तलेषु न प्राप्तम्। तदभ्यन्तरे देशनिर्मितां ३जि सुविधां संबन्ध्य भारतेन चर्चा समारब्धा। २०२३ वा २०२४ संवत्सरे स्वदेशीयरूपेण आविष्कृतां ६जि सुविधां प्रवृत्तिपथमानेष्यति इति भारतस्य वैद्युतक - वार्ताविनिमय-सूचना- प्रौद्योगिकमन्त्रिण्या श्रीमति अश्विनि वैष्णवेन प्रख्यापिता।
~ संप्रति वार्ता