Friday, November 26, 2021
अन्टार्टिक्कायां हिमपटलेषु बृहत् वाणिज्यविमानं भूस्पर्शमकरोत्।
विश्वचरित्रे इदंप्रथमतया अन्टार्टिक्कायां बृहत् वाणिज्य विमानं अवरोहितम्। ए ३४० वाणिज्यवि मानमेव अन्टार्टिक्कायां हिमपटलस्योपरि भूस्पर्शं कृतम्। चरित्रनिमेषस्य सप्तनिमेषदीर्घितं चलनचित्रखण्डम् अन्तर्जाले त्वरितप्रसरमभवत्। दक्षिणाफ्रिक्कासु केप्टौण् देशात् पञ्चहोरादीर्घायितयात्रानन्तरम् एव वैमानिकः कार्लोस् मिर्पुरिः संघः च अन्टार्टिक्कायां प्राप्ताः। अपघातसाध्यतां पुरतः दृष्ट्वा सर्वसज्जीकरणानि सज्जयित्वा आसीत् भूस्पर्शः। विमानस्प उड्डयनपथात् (Runway) अपभ्रंशनिवारणार्थं १०,००० पादमितम् आकारयुक्तम् उड्डयनपथम् अपि सज्जीकृतमासीत्।
~ संप्रति वार्ता